Mangal Murti Ram Dulare

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन
जासु हृदय आगार बसहिं राम सर चाप धर

अतुलितबलधामं हेमशैलाभदेहम्
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्

सकलगुणनिधानं वानराणामधीशम्
रघुपतिप्रियभक्तं वातजातं नमामि

गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम्
रामायण-महामाला-रत्नं वन्देऽनिलात्मजम्

अञ्जना-नन्दनं-वीरं जानकी-शोक-नाशनम्
कपीशमक्ष-हन्तारं वन्दे लङ्का-भयङ्करम्

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोक-वह्निं जनकात्मजायाः
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम्

मनोजवं मारुत-तुल्य-वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानर-यूथ-मुख्यं
श्रीराम-दूतं शरणं प्रपद्ये

आञ्जनेयमतिपाटलाननं
काञ्चनाद्रि-कमनीय-विग्रहम्
पारिजात-तरु-मूल-वासिनं
भावयामि पवमान-नन्दनम्

यत्र यत्र रघुनाथ-कीर्तनं
तत्र तत्र कृत-मस्तकाञ्जलिम्
वाष्प-वारि-परिपूर्ण-लोचनं
मारुतिर्नमत राक्षसान्तकम्



Credits
Writer(s): Appu, Traditional
Lyrics powered by www.musixmatch.com

Link