Ghalin Lotangan

घालीन लोटांगण, वंदीनचरण
डोळ्यांनी पाहीन रुप तुझें
प्रेमें आलिंगीन आनंदे पूजिन
भावे ओवाळिन म्हणे नामा

त्वमेव माता पिता त्वमेव
त्वमेव बन्धु: सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव

कायेन वाचा मनसेंद्रियैर्वा
बुध्यात्मना वा प्रकृति स्वभावात्
करोमि यद्यत् सकलं परस्मै
नारायणायेती समर्पयामि

अच्युतं केशवं राम नारायणम्
कृष्णदामोदरं वासुदेवं हरे
श्रीधरं माधवं गोपिकावल्लभम्
जानकीनायकं रामचंद्र भजे

हरे राम, हरे राम, राम राम, हरे हरे
हरे कृष्ण, हरे कृष्ण, कृष्ण कृष्ण, हरे हरे
हरे राम, हरे राम, राम राम, हरे हरे
हरे कृष्ण, हरे कृष्ण, कृष्ण कृष्ण, हरे हरे

ॐ गणांना त्वा गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तम्
जेष्ठराजं ब्रह्मणां ब्रह्मणस्पतआ नः
शृण्वत्रूतिभिः सीद सादनम्

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः

ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे
स मे कामान्कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु
कुबेराय वैश्रवणाय महाराजाय नमः

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं
पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं
समंतपर्यायी स्यात्सार्वभौमः सार्वायुष आंतादापरार्धा
पृथिव्यै समुद्रपर्यंताया एकराळिति

तदप्येषः श्लोको भिगीतो
मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे
आविक्षितस्य कामप्रे र्विश्वे देवाः सभासद इति



Credits
Writer(s): Kedar Pandit
Lyrics powered by www.musixmatch.com

Link