Suryashtakam

आदिदेवं नमस्तुभ्यं प्रसीद मम भास्कर
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते ||

सप्ताश्र्वरथमारूढम् प्रचण्डं कश्यपात्मजं
श्र्वेतपद्मधरम् देवं तं सूर्यं प्रणमाम्यहम् ||

लोहितं रथमारूढम् सर्वलोकपितामहं
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ||

त्रैगुण्यं च महाशूरं ब्रह्माविष्णु महेश्र्वरम्
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ||

ब्रम्हितं तेज: पुञ्जं च वायुमाकाशमेव च
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ||

बन्धूकपुष्पसंकाशं हारकुण्डल भूषितं
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ||

तं सूर्यं जगत्कर्तारं महातेज: प्रदीपनम्
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ||

तं सूर्यं जगतां नाथं ज्ञानविज्ञान मोक्षदं
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ||



Credits
Writer(s): Mano
Lyrics powered by www.musixmatch.com

Link