Shree Ganapati Atharvashirsha
ॐ भद्रं कर्णेभिः शृणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवाग्ँसस्तनूभिः
व्यशेम देवहितं यदायूः
ॐ स्वस्ति नः इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि
स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः
ॐ नमस्ते गणपतये
त्वमेव प्रत्यक्षं तत्त्वमसि
त्वमेव केवलं कर्तासि
त्वमेव केवलं धर्तासि
त्वमेव केवलं हर्तासि
त्वमेव सर्वं खल्विदं ब्रह्मासि
त्वं साक्षादात्मासि नित्यम्
ऋतं वच्मि सत्यं वच्मि
अव त्वं माम्
अव वक्तारम्
अव श्रोतारम्
अव दातारम्
अव धातारम्
अवानूचानमव शिष्यम्
अव पश्चात्तात्
अव पुरस्तात्
अवोत्तरात्तात्
अव दक्षिणात्तात्
अव चोर्ध्वात्तात्
अवाधरात्तात्
सर्वतो मां पाहि पाहि समन्तात्
त्वं वाङ्मयस्त्वं चिन्मयः
त्वमानन्दमयस्त्वं ब्रह्ममयः
त्वं सच्चिदानन्दाद्वितीयोसि
त्वं प्रत्यक्षं ब्रह्मासि
त्वं ज्ञानमयो विज्ञानमयोसि
सर्वं जगदिदं त्वत्तो जायते
सर्वं जगदिदं त्वत्तस्तिष्ठति
सर्वं जगदिदं त्वयि लयमेष्यति
सर्वं जगदिदं त्वयि प्रत्येति
त्वं भूमिरापोनलोनिलो नभः
त्वं चत्वारि वाक् पदानि
त्वं गुणत्रयातीतः
त्वं देहत्रयातीतः
त्वं कालत्रयातीतः
त्वं मूलाधारस्थितोसि नित्यम्
त्वं शक्तित्रयात्मकः
त्वां योगिनो ध्यायन्ति नित्यम्
त्वं ब्रह्मा त्वं विष्णुस्त्वं
त्वं रुद्र, त्वं इंद्र, त्वं अग्नि
त्वं वायु, त्वं सूर्य, त्वं चन्द्रमास्त्वं
ब्रह्म भूर्भुवस्सुवरोम्
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम्
अनुस्वारः परतरः
अर्धेन्दुलसितम्
तारेण ऋद्धम्
एतत्तव मनुस्वरूपम्
गकारः पूर्वरूपम्
अकारो मध्यरूपम्
अनुस्वारश्चान्त्यरूपम्
बिन्दुरुत्तररूपम्
नादस्संधानम्
सग्ं हिता संधिः
सैषा गणेशविद्या
गणक ऋषिः
निचृद्गायत्रीच्छन्दः
गणपतिर्देवता
ॐ गं गणपतये नमः
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि
तन्नो दन्तिः प्रचोदयात्
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम्
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्
एवं ध्यायति यो नित्यं स योगी योगिनां वरः
नमो व्रातपतये
नमो गणपतये
नमः प्रमथपतये
नमस्तेअस्तु लम्बोदरायैकदन्ताय
विघ्ननाशिने शिवसुताय श्री वरदमूर्तये नमो नमः
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवाग्ँसस्तनूभिः
व्यशेम देवहितं यदायूः
ॐ स्वस्ति नः इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि
स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः
ॐ नमस्ते गणपतये
त्वमेव प्रत्यक्षं तत्त्वमसि
त्वमेव केवलं कर्तासि
त्वमेव केवलं धर्तासि
त्वमेव केवलं हर्तासि
त्वमेव सर्वं खल्विदं ब्रह्मासि
त्वं साक्षादात्मासि नित्यम्
ऋतं वच्मि सत्यं वच्मि
अव त्वं माम्
अव वक्तारम्
अव श्रोतारम्
अव दातारम्
अव धातारम्
अवानूचानमव शिष्यम्
अव पश्चात्तात्
अव पुरस्तात्
अवोत्तरात्तात्
अव दक्षिणात्तात्
अव चोर्ध्वात्तात्
अवाधरात्तात्
सर्वतो मां पाहि पाहि समन्तात्
त्वं वाङ्मयस्त्वं चिन्मयः
त्वमानन्दमयस्त्वं ब्रह्ममयः
त्वं सच्चिदानन्दाद्वितीयोसि
त्वं प्रत्यक्षं ब्रह्मासि
त्वं ज्ञानमयो विज्ञानमयोसि
सर्वं जगदिदं त्वत्तो जायते
सर्वं जगदिदं त्वत्तस्तिष्ठति
सर्वं जगदिदं त्वयि लयमेष्यति
सर्वं जगदिदं त्वयि प्रत्येति
त्वं भूमिरापोनलोनिलो नभः
त्वं चत्वारि वाक् पदानि
त्वं गुणत्रयातीतः
त्वं देहत्रयातीतः
त्वं कालत्रयातीतः
त्वं मूलाधारस्थितोसि नित्यम्
त्वं शक्तित्रयात्मकः
त्वां योगिनो ध्यायन्ति नित्यम्
त्वं ब्रह्मा त्वं विष्णुस्त्वं
त्वं रुद्र, त्वं इंद्र, त्वं अग्नि
त्वं वायु, त्वं सूर्य, त्वं चन्द्रमास्त्वं
ब्रह्म भूर्भुवस्सुवरोम्
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम्
अनुस्वारः परतरः
अर्धेन्दुलसितम्
तारेण ऋद्धम्
एतत्तव मनुस्वरूपम्
गकारः पूर्वरूपम्
अकारो मध्यरूपम्
अनुस्वारश्चान्त्यरूपम्
बिन्दुरुत्तररूपम्
नादस्संधानम्
सग्ं हिता संधिः
सैषा गणेशविद्या
गणक ऋषिः
निचृद्गायत्रीच्छन्दः
गणपतिर्देवता
ॐ गं गणपतये नमः
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि
तन्नो दन्तिः प्रचोदयात्
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम्
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्
एवं ध्यायति यो नित्यं स योगी योगिनां वरः
नमो व्रातपतये
नमो गणपतये
नमः प्रमथपतये
नमस्तेअस्तु लम्बोदरायैकदन्ताय
विघ्ननाशिने शिवसुताय श्री वरदमूर्तये नमो नमः
Credits
Writer(s): Ajay Gogavle, Atul Gogavle
Lyrics powered by www.musixmatch.com
Link
Other Album Tracks
Altri album
- Yek Number (Original Motion Picture Soundtrack) - EP
- Atharvashirsha - 21 Times
- Zee Marathi Show Title Songs
- Best Of Ajay Atul
- Best of Ajay Atul - Marathi
- Adipurush (Original Motion Picture Soundtrack) [TAMIL] - EP
- Adipurush (Original Motion Picture Soundtrack) [Telugu] - EP
- Ajay Atul Hit Songs
- Maharashtra Shaheer (Original Motion Picturesound Track)
- Maharashtra Shaheer
© 2024 All rights reserved. Rockol.com S.r.l. Website image policy
Rockol
- Rockol only uses images and photos made available for promotional purposes (“for press use”) by record companies, artist managements and p.r. agencies.
- Said images are used to exert a right to report and a finality of the criticism, in a degraded mode compliant to copyright laws, and exclusively inclosed in our own informative content.
- Only non-exclusive images addressed to newspaper use and, in general, copyright-free are accepted.
- Live photos are published when licensed by photographers whose copyright is quoted.
- Rockol is available to pay the right holder a fair fee should a published image’s author be unknown at the time of publishing.
Feedback
Please immediately report the presence of images possibly not compliant with the above cases so as to quickly verify an improper use: where confirmed, we would immediately proceed to their removal.