Saraswati Rahasya Upanishad

श्रीसरस्वतीरहस्योपनिषत् ॥

प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।
अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता
मनो मे वाचि प्रतिष्ठितम् ॥

आविरावीर्म एधि वेदस्य म आणीस्थः
शृतं मे मा प्रहासीः अनेनाधीतेनाहोरात्रान्सन्दधामि
ऋतं वदिष्यामि सत्यं वदिष्यामि ॥

तन्मामवतु तद्वक्तारमवतु
अवतु मामवतु वक्तारमवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः आऊम् ॥

ऋषयो ह वै भगवन्तमाश्वलायनं सम्पूज्य पप्रच्छुः
केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् । यदुपासनया
तत्त्वं जानासि भगवन्वद ॥ १॥

सरस्वतीदशश्लोक्या सऋचा बीजमिश्रया ।
स्तुत्वा जप्त्वा परां सिद्धिमलभं मुनिपुङ्गवाः ॥ २॥

ऋषयः ऊचुः ।
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भगवती वद ॥ ३॥

स होवाचाश्वलायनः ।
अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य ।
अहमाश्वलायन ऋषिः । अनुष्टुप् छन्दः ।
श्रीवागीश्वरी देवता । यद्वागिति बीजम् । देवीं वाचमिति
शक्तिः ।
ॐ प्रणो देवीति कीलकम् । विनियोगस्तत्प्रीत्यर्थे । श्रद्धा
मेधा
प्रज्ञा धारणा वाग्देवता महासरस्वतीत्येतैरङ्गन्यासः ॥

नीहारहारघनसारसुधाकराभां
कल्याणदां कनकचम्पकदामभूषाम् ।
उत्तुङ्गपीनकुचकुम्भमनोहराङ्गीं
वाणीं नमामि मनसा वचसा विभूत्यै ॥ १॥

ॐ प्रणो देवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः ।
गायत्री छन्दः । श्रीसरस्वती देवता । प्रणवेन
बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः । मन्त्रेण न्यासः ॥

या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः ।
नामरूपात्मना व्यक्ता सा मां पातु सरस्वति ॥ १॥

ॐ प्रणो देवी सरस्वती वाजेभिर्वाजेनीवती ।
धीनामवित्र्यवतु ॥ १॥

आ नो दिव इति मन्त्रस्य अत्रिरृषिः । त्रिष्टुप् छन्दः ।
सरस्वती देवता । ह्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे
विनियोगः ।
मन्त्रेण न्यासः ॥

या साङ्गोपाङ्ग वेदेषु चतुर्श्वेकैव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥

ह्रीं आ नो दिवो बृहतः पर्वतादा
सरस्वती यजतागं तु यज्ञम् ।
हवं देवी जुजुषाणा घृताची
शग्मां नो वाचमुषती श्रुणोतु ॥ २॥

पावका न इति मन्त्रस्य । मधुच्छन्द ऋषिः ।
गायत्री छन्दः । सरस्वती देवता ।
श्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः ।
मन्त्रेण न्यासः ॥

या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥

श्रीं पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धिया वसुः ॥ ३॥

चोदयत्रीति मन्त्रस्य मधुच्छन्द ऋषिः ।
गायत्री छन्दः । सरस्वती देवता ।
ब्लूमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ॥

अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।
प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥

ब्लूं चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
यज्ञं दधे सरस्वती ॥ ४॥

महो अर्ण इति मन्त्रस्य । मधुच्छन्द ऋषिः ।
गायत्री छन्दः । सरस्वती देवता । सौरिति बीजशक्तिः
कीलकम् । मन्त्रेण न्यासः ।
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।
रुद्रादित्यादिरूपस्था यस्यामावेश्यतां पुनः ।
ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती ।
सौः महो अर्णः सरस्वती प्रचेतयति केतुना ।
धियो विश्वा विराजति ॥ ५॥

चत्वारि वागिति मन्त्रस्य उचथ्यपुत्रो दीर्घतमा ऋषिः ।
त्रिष्टुप् छन्दः । सरस्वती देवता । ऐमिति बीजशक्तिः
कीलकम् । मन्त्रेण न्यासः ।
या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते ।
व्यापिनि ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥

ऐं चत्वारि वाक् परिमिता पदानि
तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति
तुरीयं वाचो मनुष्या वदन्ति ॥ ६॥

यद्राग्वदन्तीति मन्त्रस्य भार्गव ऋषिः ।
त्रिष्टुप् छन्दः । सरस्वती देवता ।
क्लीमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।
नामजात्यादिमिर्भेदैरष्टधा या विकल्पिता ।
निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥

क्लीं यद्वाग्वदन्त्यविचेतनानि
राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि
क्व स्विदस्याः परमं जगाम ॥ ७॥

देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः ।
त्रिष्टुप् छन्दः । सरस्वती देवता ।
सौरिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।
व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।
सर्वकामदुघा धेनुः सा मां पातु सरस्वती ॥

सौः देवीं वाचमजनयन्त
देवास्ता विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना
धेनुर्वागस्मानुपसुष्टुतैतु ॥८॥

उत त्व इति मन्त्रस्य बृहस्पतिरृशिः ।
त्रिष्टुप्छन्दः । सरस्वती देवता ।
समिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।
यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥

सं उत त्वः पश्यन्न ददर्श वाचमुत त्वः
शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं १ विसस्रे
जायेव पत्य उशती सुवासाः ॥



Credits
Writer(s): Traditional, Madhusmita
Lyrics powered by www.musixmatch.com

Link