Navagraha Stotra

श्री गणेशाय नमः

ॐ जपाकुसुम संकाशं काश्यपेयं महदद्युतिम्
तमोरिंसर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्
ॐ दधिशंखतुषाराभं क्षीरोदार्णव संभवम्
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम्

ॐ धरणीगर्भ संभूतं विद्युत्कांति समप्रभम्
कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहम्
ॐ प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम्
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्

ॐ देवानांच ऋषीनांच गुरुं कांचन सन्निभम्
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्
ॐ हिमकुंद मृणालाभं दैत्यानां परमं गुरुम्
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम्

ॐ नीलांजन समाभासं रविपुत्रं यमाग्रजम्
छायामार्तंड संभूतं तं नमामि शनैश्चरम्
ॐ अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम्
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्

ॐ पलाशपुष्पसंकाशं तारकाग्रह मस्तकम्
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्

इति श्री वेदव्यास विरचितम्
आदित्यादी नवग्रह स्तोत्रं संपूर्णं



Credits
Writer(s): J Purushothama Sai
Lyrics powered by www.musixmatch.com

Link