Pranmya Shirsa Deva

ॐ श्री गणेशाय नमः
श्री नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङ्गगाक्षं गजवक्त्रं चतुर्थकम्

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्
नवमं भालचन्द्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम्

द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर:
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्

जपेत् गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्
संवत्सरेण सिद्धिं च लभते नात्र संशय:
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत्
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:

इति श्री नारदपुराणे संकष्टनाशनं गणपति स्तोत्रं संपूर्णम्
श्री गजाननार्पण नमस्तु



Credits
Writer(s): Knecht Andy, S P Balasubramaniam
Lyrics powered by www.musixmatch.com

Link