Anand Lahari
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पंचभिरपि
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः
स्तदामन्येषां केषां कथय कथमस्मिन्नवसरः
घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः
र्विशिष्यानाख्येयो भवति रसनामात्रविषयः
तथा ते सौन्दर्यं परमशिवदृंमात्रविषयः
कथंकारं ब्रूमः सकलनिगमागोचरगुणे
मुखे ते तांबूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता
स्फुरत्कांची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम्
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा
नतांगी मातंगी रुचिरगतिभंगी भगवती
सती शंभोरंभोरुहचटुकचक्षुर्विजयते
नवीनार्कभ्राजन्मणिकनकभूषापरिकरैः
र्वृतांगी सारंगीरुचिरनयनांगीकृतशिवा
तटित्पीता पीतांबरललितमज्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी
हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका
सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम्
विधात्री धर्माणां त्वमसि सकलांनायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्ग्रिकमले
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी
प्रभूता भक्तिस्ते यदपि न ममालोलमनसः
स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शंके कैर्वा विधिभिरनुनीता मम मतिः
कृपापांगालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः
महान्तं विश्वासं तव चरणपंकेरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम्
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गंगौघमिलितम्
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम्
त्वदन्यस्मादिच्छाविषयफललाभे न नियमः
त्वमर्थानामिच्छाधिकमपि समर्था वितरणे
इति प्राहुः प्रांचः कमलभवनाद्यास्त्वयि मनः
स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत्
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफलः
त्त्वदाकारं चंचच्छशधरकलासौधशिखरम्
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
तवागारं रंयं त्रिभुवनमहाराजगृहिणि
निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुंबं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना
वृषो वृद्धो यानं विषमशनमाशा निवसनम्
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः
समग्रा सामग्री जगति विदितैव स्मररिपोः
र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा
अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः संगत्याः फलमिति च कल्याणि कलये
त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
भियैवासीद्गंगा जलमयतनुः शैलतनये
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः
विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृणः
प्रसूनव्यामिश्रं भगवति तवाभ्यंगसलिलम्
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्ते सृष्टिं विबुधपंकेरुहदृशाम्
वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति
इति श्री शंकराचार विरचिता आनन्दलहरी संपूर्णम्
प्रजानामीशानस्त्रिपुरमथनः पंचभिरपि
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः
स्तदामन्येषां केषां कथय कथमस्मिन्नवसरः
घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः
र्विशिष्यानाख्येयो भवति रसनामात्रविषयः
तथा ते सौन्दर्यं परमशिवदृंमात्रविषयः
कथंकारं ब्रूमः सकलनिगमागोचरगुणे
मुखे ते तांबूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता
स्फुरत्कांची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम्
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा
नतांगी मातंगी रुचिरगतिभंगी भगवती
सती शंभोरंभोरुहचटुकचक्षुर्विजयते
नवीनार्कभ्राजन्मणिकनकभूषापरिकरैः
र्वृतांगी सारंगीरुचिरनयनांगीकृतशिवा
तटित्पीता पीतांबरललितमज्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी
हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका
सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम्
विधात्री धर्माणां त्वमसि सकलांनायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्ग्रिकमले
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी
प्रभूता भक्तिस्ते यदपि न ममालोलमनसः
स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शंके कैर्वा विधिभिरनुनीता मम मतिः
कृपापांगालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः
महान्तं विश्वासं तव चरणपंकेरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम्
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गंगौघमिलितम्
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम्
त्वदन्यस्मादिच्छाविषयफललाभे न नियमः
त्वमर्थानामिच्छाधिकमपि समर्था वितरणे
इति प्राहुः प्रांचः कमलभवनाद्यास्त्वयि मनः
स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत्
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफलः
त्त्वदाकारं चंचच्छशधरकलासौधशिखरम्
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
तवागारं रंयं त्रिभुवनमहाराजगृहिणि
निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुंबं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना
वृषो वृद्धो यानं विषमशनमाशा निवसनम्
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः
समग्रा सामग्री जगति विदितैव स्मररिपोः
र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा
अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः संगत्याः फलमिति च कल्याणि कलये
त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
भियैवासीद्गंगा जलमयतनुः शैलतनये
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः
विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृणः
प्रसूनव्यामिश्रं भगवति तवाभ्यंगसलिलम्
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्ते सृष्टिं विबुधपंकेरुहदृशाम्
वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति
इति श्री शंकराचार विरचिता आनन्दलहरी संपूर्णम्
Credits
Writer(s): L. Krishnan, Adi Shankaracharya
Lyrics powered by www.musixmatch.com
Link
© 2024 All rights reserved. Rockol.com S.r.l. Website image policy
Rockol
- Rockol only uses images and photos made available for promotional purposes (“for press use”) by record companies, artist managements and p.r. agencies.
- Said images are used to exert a right to report and a finality of the criticism, in a degraded mode compliant to copyright laws, and exclusively inclosed in our own informative content.
- Only non-exclusive images addressed to newspaper use and, in general, copyright-free are accepted.
- Live photos are published when licensed by photographers whose copyright is quoted.
- Rockol is available to pay the right holder a fair fee should a published image’s author be unknown at the time of publishing.
Feedback
Please immediately report the presence of images possibly not compliant with the above cases so as to quickly verify an improper use: where confirmed, we would immediately proceed to their removal.