Ganpati Shlockam

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।

एकदंताय विद्महे वक्रतुण्डाय धीमहि
तन्नो दंती प्रचोदयात् तन्नो बुद्धित प्रचोदयात् ।

सुमुखश्च-एकदंतश्च कपिलो गज कर्णक
लम्बोदरश्व विकटो विघ्ननाशो विनायक
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजानन
द्वादशैतानि नामानि य: पठेच्छर्णुयादपि ।

प्रणम्य शिरसा देवं गौरी विनायकम् ।
भक्तावासं स्मेर नित्यमाय्ः कामार्थसिद्धये ॥
प्रथमं वक्रतुडं च एकदंत द्वितीयकम् ।
तृतियं कृष्णपिंगात्क्षं गजववत्रं चतुर्थकम् ॥
लंबोदरं पंचम च पष्ठं विकटमेव च ।
सप्तमं विघ्नराजेंद्रं धूम्रवर्ण तथाष्टमम् ॥
नवमं भाल चंद्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजानन् ॥
द्वादशैतानि नामानि त्रिसंघ्यंयः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मो क्षार्थी लभते गतिम् ॥
जपेद्णपतिस्तोत्रं षडिभर्मासैः फलं लभते ।
संवत्सरेण सिद्धिंच लभते नात्र संशयः ॥
अष्टभ्यो ब्राह्मणे भ्यश्र्च लिखित्वा फलं लभते ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥
॥ इति श्री नारद पुराणे श्री
संकष्टनाशनं नाम
श्री गणपति स्तोत्रं संपूर्णम् ॥



Credits
Writer(s): Hardik Sorathiya
Lyrics powered by www.musixmatch.com

Link