Mam Chandradvishe

मम चन्द्रद्विषे आद्य-सम्मेलने
यत्त्वयालोकितं तद् महद् रञ्जितम्
मम चन्द्रद्विषे आद्य-सम्मेलने
यत्त्वयालोकितं तद् महद् रञ्जितम्
मम चन्द्रद्विषे आद्य-सम्मेलने
यत्त्वयालोकितं तद् महद् रञ्जितम्
यत्त्वयालोकितं तद् महद् रञ्जितम्
दामिनी स्रन्सिता, ध्वंस-विध्वंसितम्
दाह एतादृशः, तद् महद् रञ्जितम्
मद्यपात्रे च संश्रित्य रूपोन्मदम्
चन्द्रिका च स्मिता,तद् महद् रञ्जितम्

निरवगुण्ठन-मुखा सम्मुखं साડगता
यौवनं यौवनेनाभिसङ्घट्टितम्
यौवनं यौवनेनाभिसङ्घट्टितम्

दृष्टिरोधोડभवत् तादृशश्चावयोः
दृष्टिरोधोડभवत् तादृशश्चावयोः
लोकयित्त्वा रणं, तद् महद् रञ्जितम्
मम चन्द्रद्विषे आद्य-सम्मेलने
यत्त्वयालोकितं तद् महद् रञ्जितम्

नेत्रयोरास्त लज्जा च प्रतिमेलने
पाटलत्त्वं कपोलौ प्रसंगे गतौ
पाटलत्त्वं कपोलौ प्रसंगे गतौ

लज्जया च तया हन्त! प्रश्नेषु मे
लज्जया च तया हन्त! प्रश्नेषु मे
आननं यन्नतं तद् महद् रञ्जितम्
मम चन्द्रद्विषे आद्य-सम्मेलने
यत्त्वयालोकितं तद् महद् रञ्जितम्
मम चन्द्रद्विषे आद्य-सम्मेलने
यत्त्वयालोकितं तद् महद् रञ्जितम्
यत्त्वयालोकितं तद् महद् रञ्जितम्
दामिनी स्रन्सिता, ध्वंस-विध्वंसितम्
दाह एतादृशः, तद् महद् रञ्जितम्
मद्यपात्रे च संश्रित्य रूपोन्मदम्
चन्द्रिका च स्मिता,तद् महद् रञ्जितम्



Credits
Writer(s): Vipin Shukla
Lyrics powered by www.musixmatch.com

Link