Bhashyakaar Mangalam ।। भाष्यकार मङ्गलम्

श्रीभाष्यकारमङ्गलम्

श्रीपराङ्कुशपादाब्जसुरभीकृतमौलये।
श्रीवत्सचिह्ननाथाय यतिराजाय मङ्गलम् ॥ १ ॥

नाथपद्माक्षरामार्यपादपङ्कजसेविने ।
सेव्याय सर्वयमिनां यतिराजाय मङ्गलम् ॥ २ ॥

पूर्णार्थपूर्णकरुणापात्रायामितेजसे ।
मालाधरप्रियायास्तु यतिराजाय मङ्गलम् ||३||

संसेव्य यामुनाचार्यमेकलव्योऽस्म्यहं गुरोः ।
इत्येवं वदते नित्यं यतिराजाय मङ्गलम् ॥४॥

श्रीकाञ्चीपूर्णमिश्रोक्तरहस्यार्थविदे सदा ।

देवराजप्रियायास्तु यतिराजाय मङ्गलम् ॥ ५ ॥

श्रीमद्गोष्ठीपुरीपूर्णदिव्याज्ञां कुर्वते मुदा ।
श्लोकार्थं गृह्णते तस्माद् यतिराजाय मङ्गलम् ||६||

कूरेशकुरुकानाथदाशरथ्यादिदेशिकाः।
यच्छिष्या भान्ति ते तस्मै यतिराजाय मङ्गलम् ॥७॥

चरमश्लोकतत्त्वार्थं ज्ञात्वार्याज्ञां विलङ्घ्य च।
दिशते तं स्वकीयेभ्यः यतिराजाय मङ्गलम् ॥८॥

श्रीशैलपूर्णकृपया श्रीरामायणमर्थतः ।
भक्त्या येन श्रुतं तस्मै यतिराजाय मङ्गलम् ॥ ९ ॥

शङ्करादिकुदृष्टीनां बाह्यानां निधनाय च ।
श्रीभाष्यं कुर्वते तस्मै यतिराजाय मङ्गलम् ॥ १०॥

कुर्वन्नुपनिषद्भाष्यं जगद्रक्षां करोति यः ।
दयायाः परतन्त्राय भाष्यकाराय मङ्गलम् ॥ ११ ॥

द्रमिडोपनिषद्व्याख्यां कलयेति कृपाबलात्।
शासते कुरुकेशं तं भाष्यकाराय मङ्गलम् ।।१२।।

गत्वा तु शारदापीठं वृत्तिं बोधायनस्य च । तु
अवलोक्यागतायास्तु भाष्यकाराय मङ्गलम् ॥ १३ ॥

परमाणुमृषावादिवादिसंहारकारिणे ।
तस्मै भगवते श्रीमद्भाष्यकाराय मङ्गलम् ॥१४।।

श्रीमत्कुरङ्गपूर्णाय श्रीभाष्यं वदते स्वयम् ।
पित्रे संपत्सुतस्यापि भाष्यकाराय मङ्गलम् ।। १५ ।।

दत्त्वा वृषगिरीशस्य शङ्खचक्रे रमापतेः ।
परमप्रीतियुक्ताय भाष्यकाराय मङ्गलम् ॥१६॥

सन्यासं कुर्वते काञ्च्यामनन्तसरसीतटे ।
वरदे न्यस्तभाराय भाष्यकाराय मङ्गलम् ॥१७॥

श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।
कान्तिमत्यां प्रसूता यतिराजाय मङ्गलम् ॥ १८ ॥

शेषो वा सैन्यनाथो वा श्रीपतिर्वेति सात्विकैः ।
वितर्क्याय महाप्राज्ञैः यतिराजाय मङ्गलम् ॥ १९ ॥

प्रकृष्टगुणपूर्णाय प्राप्याय स्वाङ्घ्रिसेविनाम् ।
प्रपन्नसार्थवाहाय यतिराजाय मङ्गलम्।।२०।।

वेदात्मसुप्रमाणेन सात्विकैश्च प्रमातृभिः ।
प्रमेयेण सह श्रीमान् वर्धतां यतिशेखरः ।। २१ ।।



Credits
Writer(s): Laxman Ramanujdas
Lyrics powered by www.musixmatch.com

Link