Tulsi Namashtakam

ॐ।। श्री तुलसी स्तोत्रं. ॐ

।। श्री भगवानुवाच ।।
बृंदा रूपाश्च वृक्षाश्च यथैकत्र भवन्ति च।
विदुर्बुधास्तेन बृंदां मत्प्रियां तां भजाम्यहम् ॥१॥
पुरा बभूव या देवी त्वादौ बृन्दा वने-वने।
तेन वृन्दावनीख्याता सौभाग्यां तां भजाम्यहम् ॥२॥
असंख्येषु च विश्वेषु पूजिता या निरन्तरम्।
तेन विश्वपूजिताख्या पूजितां च भजाम्यहम् ॥३॥
असंख्यानि च विश्वानि पवित्राणि तया सदा।
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥४॥
देवा न तुष्टाः पुष्पाणां समूहेन यया विना।
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥५॥
विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद्ध्रुवम्।
नन्दिनी तेन विख्याता सा प्रीता भवतादिह ॥६॥
यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च।
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥७॥
कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती।
तेन कृष्णजीवनीया सा मे रक्षतु जीवनम् ॥८॥
बृन्दा बृन्दावनी विश्वपूजिता विश्वपावनी।
पुष्पसारा नन्दिनी च तुलसी कृष्णजीवनी ॥९॥
एतन्नामाष्टकं चैव स्तोत्रं नामार्थसंयुतम्।
यः पठेत् तां च संपूज्य सोऽश्वमेधफलं लभेत् ॥१०॥



Credits
Writer(s): Desai Ashit
Lyrics powered by www.musixmatch.com

Link