Mahalakshmi Suktam

पद्मानने पद्मउरु पद्माक्षी पदमसंभवे ।
तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम् ।। १ ।।

अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवी सर्वकामाश्च देहि मे ।। २ ।।

पुत्रं पौत्रं धनं धान्यं हस्त्यश्वादि गवेरथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे ।। ३ ।।

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो वृहस्पतिर्वरुणो धनमस्तु मे ।। ४ ।।

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ।। ५ ।।

भवन्ति कृतपुण्यानां भक्तानां श्री सूक्तजापिनाम् ।। ६ ।।

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ।। ७ ।।

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीं प्रियसखीं देवी नमाम्यच्युतवल्लभाम् ।। ८ ।।

महालक्ष्म्यै च विद्महे विष्णुपत्न्यै ।
च धीमहि, तन्ने लक्ष्मीः प्रचोदयात् ।। ९ ।।

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके देवी नारायणि नमोऽस्तु ते ।।

ऋणरोगादिदारिद्रय पापक्षुदपमृत्यवः।
भयशोकमनस्ताप नश्यन्तु मम सर्वदा ।। ११ ।।



Credits
Writer(s): Uma Mohan
Lyrics powered by www.musixmatch.com

Link