Sri Rudra Prashnaha

श्री रुद्र प्रश्नः

ॐ नमो भगवते॑ रुद्राय ॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राஉपा॑पकाशिनी ।
यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे ।
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑वदामसि ।
अहीग्॑श्च॒ सर्वां॓ज॒म्भय॒न्त्सर्वा॓श्च यातुधा॒न्यः॑ ।
अ॒सौ यो॑உवसर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ।
नमो॑ अस्तु नील॑ग्रीवाय सहस्रा॒क्षाय॒ मी॒ढुषे॓ ।
अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे ।
तया॒உस्मान्, वि॒श्वत॒स्-त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ।
नम॑स्ते अ॒स्त्वायुधा॒याना॑तताय धृ॒ष्णवे॓ ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ॥ १ ॥

नम॑स्ते अस्तु भगवन्-विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नील॒कण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॑राय॑ सदाशि॒वाय॑ श्रीमन्-महादे॒वाय॒ नमः॑ ॥

नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये नमो॒ नमः॑ ककु॒भाय॑ निष॒ङ्गिणे॓ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॑ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒विभ्यो॒ जिघाग्ं॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑உसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ नम॑ उष्णी॒षिने॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑ आतन्-वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒॑द्भ्यो विसृ॒जद्-भ्य॑श्च वो॒ नमो॒ नमोஉस्स॑द्भ्यो॒ विद्य॑द्-भ्यश्च वो॒ नमो॒ नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्-भ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्-भ्यश्च वो॒ नमो॒ नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒ अश्वे॒भ्योஉश्व॑पतिभ्यश्च वो॒ नमः॑ ॥ ३ ॥

नम॑ आव्या॒धिनी॓भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृगं-ह॒तीभ्यश्च॑ वो॒ नमो॒ नमो॑ गृ॒त्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॓भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑ मह॒द्भ्यः॑, क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॒உर॒थेभ्य॑श्च वो॒ नमो॒ नमो॒ रथे॓भ्यो॒ रथ॑पतिभ्यश्च वो॒ नमो॒ नमः॑ सेना॓भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमः॑, क्ष॒त्तृभ्यः॑ सङ्ग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॑ नमः॒ कुला॑लेभ्यः क॒र्मारे॓भ्यश्च वो॒ नमो॒ नमः॑ पु॒ञ्जिष्टे॓भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ नमः॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्-भ्य॑श्च वो॒ नमो॒ नमो॑ मृग॒युभ्यः॑ श्व॒निभ्य॑श्च वो॒ नमो॒ नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमः॑ ॥ ४ ॥

ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्माஉरो॒ मो ए॑षां॒ किञ्च॒नाम॑मत् ।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑भेषजी ।
इ॒माग्ं रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॓ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिम् ।
यथा॑ नः॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्नना॑तुरम् ।
मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।
वी॒रान्मा नो॑ रुद्र भामि॒तोஉव॑धीर्-ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।
आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्-नम॒स्मे ते॑ अस्तु ।
रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यथा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हा॓ः ।
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गन्न भी॒ममु॑पह॒न्तुमु॒ग्रम् ।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेना॓ः ।
विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते॑ स॒हस्रग्ं॑ हे॒तयो॒न्यम॒स्मन्-निव॒पन्तु ताः ।

स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या॓म् ।
तेषाग्ं॑ सहस्रयोज॒नेஉव॒धन्वा॑नि तन्मसि ।
अ॒स्मिन्-म॑ह॒त्-य॑र्ण॒वे॓உन्तरि॑क्षे भ॒वा अधि॑ ।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ।
ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ ।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ ।
य ए॒ताव॑न्तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाग्ं॑ सहस्रयोज॒नेஉव॒धन्वा॑नि तन्मसि ।
नमो॑ रु॒ध्रेभ्यो॒ ये पृ॑थि॒व्यां ये॓உन्तरि॑क्षे ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्-ष॒मिष॑व॒स्-तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्-दशो-दी॑ची॒र्-दशो॒र्ध्वास्-तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ॥ ११ ॥

त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्-मृत्यो॑र्-मुक्षीय॒ माஉमृता॓त् ।
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ।
तमु॑ ष्टु॒हि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
यक्ष्वा॓म॒हे सौ॓मन॒साय॑ रु॒द्रं नमो॓भिर्-दे॒वमसु॑रं दुवस्य ।
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।
तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ।
प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः ।
तेनान्नेना॓प्याय॒स्व ॥
ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥

ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
ॐ नमो भगवते रुद्राय



Credits
Writer(s): Uma Mohan
Lyrics powered by www.musixmatch.com

Link