Meenakshi Pancharatnam

ॐ ।। मीनाक्षी पञ्च रत्नम ।। ॐ

उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्वस्वरूपां शिवां
मीनाक्षीं प्रणतोस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ १ ॥

मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ २ ॥

श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
मीनाक्षीं प्रणतोस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ ३ ॥

श्रीमत्सुन्दरनायिकां भयहरां ज्ञानाप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकां
मीनाक्षीं प्रणतोस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ ४ ॥

नानायोगिमुनीन्द्रहृत्सुवसतिं नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतोस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ ५ ॥



Credits
Writer(s): Uma Mohan
Lyrics powered by www.musixmatch.com

Link