Sivashtakam

शिवं शङ्करं शम्भुमीशानमीडे

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्य भूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे

शिवं शङ्करं शम्भुमीशानमीडे

गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।
जटाजूट गङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे

शिवं शङ्करं शम्भुमीशानमीडे

मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्म भूषाधरं तम् ।
अनादि ह्यपारं महा मोह मारं शिवं शङ्करं शम्भुमीशानमीडे

शिवं शङ्करं शम्भुमीशानमीडे

वटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं शिवं शङ्करं शम्भुमीशानमीडे ॥

शिवं शङ्करं शम्भुमीशानमीडे

गिरिन्द्रात्मजा संग्रहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम् ।
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भुमीशानमीडे ॥

शिवं शङ्करं शम्भुमीशानमीडे

कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोज नम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे ॥
शिवं शङ्करं शम्भुमीशानमीडे
शरच्चन्द्र गात्रं गुणानन्द पात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णा कलत्रं चरित्रं विचित्रं शिवं शङ्करं शम्भुमीशानमीडे ॥
शिवं शङ्करं शम्भुमीशानमीडे
हरं सर्पहारं चिता भूवि हारं भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे ॥
शिवं शङ्करं शम्भुमीशानमीडे
स्तवं यः प्रभाते नरः शूलपाणे पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रं समासाद्य मोक्षं प्रयाति ॥
शिवं शङ्करं शम्भुमीशानमीडे



Credits
Writer(s): L Krishnan
Lyrics powered by www.musixmatch.com

Link