Achyutashtakam

अच्युतं केशवं राम नारायणं कृष्ण दामोदरं वासुदेवं हरिम्
|श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे || १ ||
जानकीनायकं रामचन्द्रं भजेll
अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम्
|इन्दिरा मन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं संदधे || २ ||
जानकीनायकं रामचन्द्रं भजेll
विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिनी रागिने जानकी जानये
|वल्लवी वल्लभायाऽर्चितायात्मने कंस विध्वंसिने वंशिने ते नमः || ३ ||
जानकीनायकं रामचन्द्रं भजेll
कृष्ण गोविन्द हे राम नारायण श्रिपते वासुदेवाचित श्रिनिधे
|अच्युतानन्त हे माधवाधोक्षज द्वारका नायक द्रौपदी रक्षक || ४ ||
जानकीनायकं रामचन्द्रं भजेll
राक्षसक्षोभितः सीतयाशोभितो दण्डकारण्य भू पुण्यता कारणः
|लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्संपूजितो राघवः पातु माम् || ५ ||
जानकीनायकं रामचन्द्रं भजेll
धेनुकारिष्टकोऽनिष्टकृद् द्वेषिणां केशिहा कंसहृद् वंशिकावादकः
|पूतनाकोपकः सूरजा खेलनो बाल गोपालकः पातु माम् सर्वदा || ६ ||
जानकीनायकं रामचन्द्रं भजेll
विद्युदुद्धयोतवान प्रस्फुरद्वाससं प्रावृडम्भोदवत्
प्रोल्लसद्विग्रहम् |वन्यया मालया
शोभितोरस्थलं लोहितांघ्रिदूयं वारिजाक्षं भजे || ७ ||
जानकीनायकं रामचन्द्रं भजेll
कुञ्चितैः कुन्तलैर्भ्राजिमानाननं रत्नमौलिं लसत् कुण्डलं गण्डयोः
|हारकेयूरकं कङ्कण प्रोज्ज्वलं किङ्किणी मञ्जुलं श्यामलं तं भजे || ८ ||
जानकीनायकं रामचन्द्रं भजेll



Credits
Writer(s): Shaarang Dev Pandit
Lyrics powered by www.musixmatch.com

Link