Sathyam Gnyaanam Anantham

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं
गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम्
मायाकल्पितनानाकारमनाकारं भुवनाकारं
क्ष्माया नाथमनाथं प्रणमत गोविन्दं परमानन्दम्

मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासं
व्यदितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्

(त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं)
(कैवल्यं नवनीताहारमनाहारं भुवनाहारम्)
(वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं)
(शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्)

(गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालं)
(गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्)
(गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं)
(गोपीगोचरपथिकं प्रणमत गोविन्दं परमानन्दम्)

गोपीमण्डलगोष्ठिभेदं भेदावस्थमभेदाभं
शश्वद्गोखुरनिर्घूतोद्धतधूलीधूसरसौभाग्यम्
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्

स्नानव्याकुलयोशिद्वस्त्रमुपादायागमुपारूढं
व्यदित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थं
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम्

(कान्तं कारणकारणमादिमनादिं कालमनाभासं)
(कालिन्दीगतकालियशिरसि मुहुर्नृत्यन्तं नृत्यन्तम्)
(कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं)
(कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्)

(वृन्दावनभुवि वृन्दारकगणवृन्दाराध्यं वन्देऽहं)
(कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम्)
(वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं)
(वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम्)

गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो
गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति
गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविन्दं परमानन्दामृतमन्तःस्थं स तमभ्येति

(...स तमभ्येति)
(...स तमभ्येति)



Credits
Writer(s): Atul, Ajay
Lyrics powered by www.musixmatch.com

Link