Ram Raksha Stotra

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य
बुधकौशिक ऋषि:
श्रीसीतारामचंद्रोदेवता
अनुष्टुप् छन्द:
सीता शक्ति:
श्रीमद्हनुमान् कीलकम्
श्रीरामचंद्र प्रीत्यर्थे जपे विनियोग:

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दपद्मासनस्थं

पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्

वामाङ्कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं

नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम्
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम्
सासितूणधनुर्बाण पाणिं नक्तं चरान्तकम्
स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम्
रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम्
शिरो मे राघव: पातु भालं दशरथात्मज:
कौसल्येयोदृशौ पातु विश्वामित्रप्रिय: श्रुती
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल:
जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित:
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक:
करौ सीतपति: पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय:
सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु:
ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत्
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तक:
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु:
एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्
स चिरायु: सुखी पुत्री विजयी विनयी भवेत्
पातालभूतलव्योम चारिणश्छद्मचारिण:
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि:
रामेति रामभद्रेति रामचंद्रेति वा स्मरन्
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति
जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय:
वज्रपंजरनामेदं यो रामकवचं स्मरेत्
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर:
तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक:



Credits
Writer(s): Pandit Maniram
Lyrics powered by www.musixmatch.com

Link