Suryashtakam

आदिदेव नमस्तुभ्यं प्रसीद मभास्कर
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते

सप्ताश्व रध मारूढं प्रचण्डं कश्यपात्मजं
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहं

लोहितं रधमारूढं सर्व लोक पितामहं
महापाप हरं देवं तं सूर्यं प्रणमाम्यहं

त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरं
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं

बृंहितं तेजसां पुञ्जं वायु माकाश मेवच
प्रभुञ्च सर्व लोकानां तं सूर्यं प्रणमाम्यहं

बन्धूक पुष्प सङ्काशं हार कुण्डल भूषितं
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहं

विश्वेशं विश्व कर्तारं महा तेजः प्रदीपनं
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं

तं सूर्यं जगतां नाधं ज्नान विज्नान मोक्षदं
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं



Credits
Writer(s): Devassy Stephen
Lyrics powered by www.musixmatch.com

Link