Chidambareshvara Stotram

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतीवामभागम्
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि

वाचामतीतं फणिभूषणाङ्गं गणेशतातं धनदस्य मित्रम्
कन्दर्पनाशं कमलोत्पलाक्षं चिदम्बरेशं हृदि भावयामि

रमेशवन्द्यं रजताद्रिनाथं श्रीवामदेवं भवदुःखनाशम्
रक्षाकरं राक्षसपीड़ितानां चिदम्बरेशं हृदि भावयामि

देवादिदेवं जगदेकनाथं देवेशवन्द्यं शशिखण्डचूडम्
गौरीसमेतं कृतविघ्नदक्षं चिदम्बरेशं हृदि भावयामि

वेदान्तवेद्यं सुरवैरिविघ्नं शुभप्रदं भक्तिमदन्तराणाम्
कालान्तकं श्रीकरुणाकटाक्षं चिदम्बरेशं हृदि भावयामि

हेमाद्रिचापं त्रिगुणात्मभावं गुहात्मजं व्याघ्रपुरीशमाद्यम्
श्मशानवासं वृषवाहनस्थं चिदम्बरेशं हृदि भावयामि

आद्यन्तशून्यं...
आद्यन्तशून्यं त्रिपुरारिमीशं नन्दीशमुख्यस्तुतवैभवाढ्यम्
समस्तदेवैः परिपूजिताङ्घ्रिं चिदम्बरेशं हृदि भावयामि

तमेव भान्तं ह्यनुभातिसर्वं अनेकरूपं परमार्थमेकम्
पिनाकपाणिं भवनाशहेतुं चिदम्बरेशं हृदि भावयामि

विश्वेश्वरं नित्यमनन्तमाद्यं त्रिलोचनं चन्द्रकलावतंसम्
पतिं पशूनां हृदि सन्निविष्टं चिदम्बरेशं हृदि भावयामि

कर्पूरगात्रं कमनीयनेत्रं कंसारिमित्रं कमलेन्दुवक्त्रम्
कन्दर्पगात्रं कमलेशमित्रं चिदम्बरेशं हृदि भावयामि

दिगम्बरं शङ्खसिताल्पहासं कपालिनं शूलिनमप्रयेम्
नागात्मजावक्त्रपयोजसूर्यं चिदम्बरेशं हृदि भावयामि

दिगम्बरं शङ्खसिताल्पहासं कपालिनं शूलिनमप्रयेम्
नागात्मजावक्त्रपयोजसूर्यं चिदम्बरेशं हृदि भावयामि

...चिदम्बरेशं हृदि भावयामि
...चिदम्बरेशं हृदि भावयामि



Credits
Writer(s): Sounds Of Isha
Lyrics powered by www.musixmatch.com

Link